|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.226. अध्यायः 226
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
परमेश्वरेण पार्वतींप्रति प्राणिनां स्त्रीत्वपुंस्त्वयोः स्वाभाविकत्वनिषेधेन कर्मायत्तत्वोक्तिः॥ 1 ॥ तथा सात्विकादिधर्मादिप्रतिपादनम्॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
देवदेव महादेव श्रुतं मे भगवन्निदम्।
आत्मनो जातिसम्बन्धं ब्रूहि स्त्रीपुरुषान्तरम्॥ 13-226-1(90274)
स्त्रीप्राणाः पुरुषप्राणा एकतः पृथगेव वा।
एष मे संशयो देव तं मे छेत्तुं त्वमर्हसि॥ 13-226-2(90275)
महेश्वर उवाच। 13-226-3x(7592)
तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता।
स्त्रीत्वं पुंस्त्वमिति प्राणे स्थितिर्नास्ति शुभेक्षणे॥ 13-226-3(90276)
निर्विकारः सदैवात्मा स्त्रीत्वं पुंस्त्वं न चात्मनि।
कर्मप्रकारेण तथा जात्यां जात्यां प्रजायते॥ 13-226-4(90277)
कृत्वा कर्म पुमान्स्त्री वा स्त्री पुमानपि जायते।
स्त्रीभावं यत्पुमान्कृत्वा कर्मणा प्रमदा भवेत्॥ 13-226-5(90278)
उमोवाच। 13-226-6x(7593)
भगवन्सर्वलोकेश कर्मात्मा न करोति चेत्।
कोऽन्यः कर्मकरो देहे तन्मे त्वं वक्तुमर्हसि॥ 13-226-6(90279)
महेश्वर उवाच। 13-226-7x(7594)
शृणु भामिनि कर्तारमात्मा हि न च कर्मकृत्।
प्रकृत्या गुणयुक्तेन क्रियते कर्म नित्यशः॥ 13-226-7(90280)
शरीरं प्राणिनां लोके यथा पित्तकफानिलैः।
व्याप्तमेभिस्त्रिभिर्दोषैस्तथा व्याप्तं त्रिभिर्गुणैः॥ 13-226-8(90281)
सत्वं रजस्तमश्चैव गुणास्त्वेते शरीरिणः।
प्रकाशात्मकमेतेषां सत्वं सततमिष्यते॥ 13-226-9(90282)
रजो दुःखत्मकं तत्र तमो मोहात्मकं स्मृतम्।
त्रिभिरेतैर्गुणैर्युक्तं लोके कर्म प्रवर्तते॥ 13-226-10(90283)
सत्यं प्राणिदया शौचं श्रेयः प्रीतिः क्षमा दमः।
एवमादि तथाऽन्यश्च कर्म सात्विकमुच्यते॥ 13-226-11(90284)
दाक्ष्यं कर्मपरत्वं च लोभो मोहो विधिं प्रति।
कलत्रसङ्गो माधुर्यं नित्यमैश्वर्यलुब्धता।
रजसश्चोद्भवं चैतत्कर्म नानाविधं सदा॥ 13-226-12(90285)
अनृतं चैव पारुष्यं धृतिर्विद्वेषिता भृशम्।
हिंसाऽसत्यं च नास्तिक्यं निद्रालस्यभयानि च।
तमसश्चोद्भवं चैतत्कर्म पापयुतं तथा॥ 13-226-13(90286)
तस्माद्गुणमयः सर्वः कार्यारम्भः शुभाशुभः।
तस्मादात्मानमव्यग्रं विद्ध्यकर्तारमव्ययम्॥ 13-226-14(90287)
सात्विकाः पुण्यलोकेषु राजसा मानुषे पदे।
तिर्यग्योनौ च नरके तिष्ठेयुस्तामसा नराः॥ 13-226-15(90288)
उमोवाच। 13-226-16x(7595)
किमर्थमात्मा भिन्नेऽस्मिन्देहे शस्त्रेण वा हते।
स्वयं प्रयास्यति तदा तन्मे शंसितुमर्हसि॥ 13-226-16(90289)
महेश्वर उवाच। 13-226-17x(7596)
तदहं ते प्रक्ष्यामि शृणु कल्याणि कारणम्।
एतन्निर्णायकैश्चापि मुह्यन्ते सूक्ष्मबुद्धिभिः॥ 13-226-17(90290)
कर्मक्षये तु सम्प्राप्ते प्राणिनां जन्मधारिणाम्।
उपद्रवो भवेद्देहे येन केनापि हेतुना॥ 13-226-18(90291)
तन्निमित्तं शरीरी तु शरीरं प्राप्य संक्षयम्।
अपयाति परित्यज्य ततः कर्मवशेन सः॥ 13-226-19(90292)
देहक्षयेपि नैवात्मा वेदनाभिर्न चाल्यते।
तिष्ठेत्कर्मफलं यावद्व्रजेत्कर्मक्षये पुनः॥ 13-226-20(90293)
आदिप्रभृति लोकेऽस्मिन्नेवमात्मगतिः स्मृता।
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि॥ ॥ 13-226-21(90294)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षड्विंशत्यधिकद्विशततमोऽध्यायः॥ 226 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|